|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.23. अध्यायः 023
Mahabharata - Adi Parva - Chapter Topics
गरुडोत्पत्तिः॥ 1 ॥ देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-23-0x(89)(1320)
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा॥ 1-23-1(1321)
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2(1322)
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3(1323)
ततः सा विनता तस्मिन्पणितेन पराजिता।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4(1324)
एतस्मिन्नन्तरे चापि गरुडः काल आगते।
विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5(1325)
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।
कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6(1326)
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7(1327)
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8(1328)
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम्।
प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9(1329)
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10(1330)
अग्निरुवाच। 1-23-11x(90)
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।
गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11(1331)
जातः परमतेजस्वी विनतानन्दवर्धनः।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12(1332)
नागक्षयकरश्चै काश्यपेयो महाबलः।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13(1333)
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया। 1-23-14(1334)
सौतिरुवाच।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्॥ 1-23-14x(91)
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा। 1-23-15(1335)
देवा ऊचुः।
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः॥ 1-23-15x(92)
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः।
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः॥ 1-23-16(1336)
त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा।
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः॥ 1-23-17(1337)
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः।
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्॥ 1-23-18(1338)
`त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम्।'
बलोर्मिमान्साधुरदीनसत्त्वः
समृद्धिमान्दुर्विषहस्त्वमेव।
त्वत्तः सृतं सर्वमहीनकीर्ते
ह्यनागतं चोपगतं च सर्वम्॥ 1-23-19(1339)
त्वमुत्तमः सर्वमिदं चराचरं
गभस्तिभिर्भानुरिवावभाससे।
समाक्षिपन्भानुमतः प्रभां मुहु-
स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्॥ 1-23-20(1340)
दिवाकरः परिकुपितो यथा दहे-
त्प्रजास्तथा दहसि हुताशनप्रभ।
भयंकरः प्रलय इवाग्निरुत्थितो
विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-21(1341)
खगेश्वरं शरणमुपागता वयं
महौजसं ज्वलनसमानवर्चसम्।
तडित्प्रभं वितिमिरमभ्रगोचरं
महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-22(1342)
परावरं वरदमजय्यविक्रमं
तवौजस सर्वमिदं प्रतापितम्।
जगत्प्रभो तप्तसुवर्णवर्चसा
त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-23(1343)
भयान्विता नभसि विमानगामिनो
विमानिता विपथगतिं प्रयान्ति ते।
ऋषेः सुतस्त्वमसि दयावतः प्रभो
महात्मनः खगवर कश्यपस्य ह॥ 1-23-24(1344)
स मा क्रुधः कुरु जगतो दयां परां
त्वमीश्वरः प्रशममुपैहि पाहि नः।
महाशनिस्फुरितसमस्वनेन ते
दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-25(1345)
चलन्ति नः खग हृदयानि चानिशं
निगृह्यतां वपुरिदमग्निसन्निभम्।
तव द्युतिं कुपितकृतान्तसन्निभां
निशाम्य नश्चलति मनोऽव्यवस्थितम्।
प्रसीद नः पतगते प्रयाचतां
शिवश्च नो भव भगवन्सुखावहः॥ 1-23-26(1346)
सौतिरुवाच। 1-23-27x(93)
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।
तेजसः प्रतिसंहारमात्मनः स चकार ह॥ ॥ 1-23-27(1347)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम्॥ 1-23-8 और्वो वडवाग्निः॥ 1-23-9 विभावसुं अग्निम्॥ 1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम्॥ 1-23-25 चलन्तीत्युत्तरादपकृष्यते॥ 1-23-26 निगृत्यतां संक्षिप्यताम्॥ त्रयोविंशोऽध्यायः॥ 23 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|